मंगलाचरण

मंगलाचरण

🙏 आरती संग्रह 🙏




॥ मंगलाचरण ॥

मंगलाचरण | Mangalacharan

॥ मंगलाचरण ॥

॥ 1 ॥

ॐ अज्ञान तिमिरान्धस्य ज्ञानाञ्जन शलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ।।
श्री चैतन्यमनोऽभीष्टं स्थापितं येन भूतले ।
स्वयं रूपः कदा मह्यं ददाति स्वपदान्तिकम् ।।

॥ 2 ॥

वन्देऽहं श्रीगुरोः श्रीयुतपद-कमलं श्रीगुरुन्‌ वैष्णवांश्च
श्रीरूपं साग्रजातं सहगण-रघुनाथान्वितं तं सजीवम् ।
साद्वैतं सावधूतं परिजन सहितं कृष्ण-चैतन्य-देवम्‌
श्रीराधा-कृष्ण-पादान्‌सहगण-ललिता-श्रीविशाखान्विताश्च ।।

॥ 3 ॥

हे कृष्ण करुणासिन्धो दीनबन्धो जगत्पते ।
गोपेश गोपिकाकान्त राधाकान्त नमोऽस्तु ते ।।

॥ 4 ॥

तप्तकाञ्चनगौराङ्गी राधेवृन्दावनेश्वरी ।
वृषभानुसुते देवी प्रणमामी हरिप्रिये ।।

॥ 5 ॥

वाञ्छा-कल्पतरुभ्यश्च कृपा-सिन्धुभ्य एवच ।
पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः ।।

॥ 6 ॥

श्रीकृष्ण चैतन्य प्रभु नित्यानन्द ।
श्रीअद्वैत गदाधर श्रीवासादि-गौरभक्तवृन्द ।।

॥ 7 ॥

हरे कृष्ण हरे कृष्ण, कृष्ण कृष्ण हरे हरे ।
हरे राम हरे राम राम राम हरे हरे ।।

॥ 8 ॥

नम ॐ विष्णु पादाय कृष्ण प्रेष्ठाय भूतले ।
श्रीमते भक्तिवेदान्त स्वामिन् इति नामिने ।।
नमस्ते सारस्वते देवे गौर वाणी प्रचारिणे ।
निर्विशेष शून्यवादी पाश्चात्य देश तारिणे ।।